|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.140. अध्यायः 140
Mahabharata - Udyoga Parva - Chapter Topics
कृष्णेन कर्णः किमुक्त इति जनमेजयप्रश्नः ॥ 1 ॥ कृष्णेन कर्णंप्रति तस्य कुन्तीसुतत्वरूपरहस्यकथनपूर्वकं पाण्डवपक्षप्रवेशचोदना ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
जनमेजय उवाच। 5-140-0x(3799)(36576)
राजपुत्रैः परिवृतस्तथा भृत्यैश्च सत्तम।
उपारोप्य रथे कर्णं निर्यातो मधुसूदनः॥ 5-140-1(36577)
किमब्रवीद्रथोपस्थे राधेयं परवीरहा ।
कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् ॥ 5-140-2(36578)
उद्यन्मेघस्वनः काले यत्कृष्णः कर्णमब्रवीत्।
मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व सर्वशः ॥ 5-140-3(36579)
वैशम्पायन उवाच। 5-140-4x(3800)
आनुपूर्व्येण वाक्यानि तीक्ष्णानि च मृदूनि च।
प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च ॥ 5-140-4(36580)
हृदयग्रहणीयानि राधेयं मधुसूदनः ।
यान्यब्रवीदमेयात्मा तानि मे श्रृणु भारत ॥ 5-140-5(36581)
वासुदेव उवाच। 5-140-6x(3801)
उपासितास्ते राधेय ब्राह्मणा वेदपारगाः।
तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया ॥ 5-140-6(36582)
त्वमेव कर्ण जानासि वेदवादान्सनातनान् ।
त्वमेव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः ॥ 5-140-7(36583)
कानीनश्च सहोढश्च कन्यायां यश्च जायते ।
वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः ॥ 5-140-8(36584)
सोऽसि कर्ण तथाजातः पाण्डोः पुत्रोसि धर्मतः ।
निश्चयाद्धर्मशास्त्राणामेहि राजा भविष्यसि ॥ 5-140-9(36585)
पितृपक्षे च ते पार्था मातृपक्षे च वृष्णयः ।
द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ ॥ 5-140-10(36586)
मया सार्धमितो यातमद्य त्वां तात पाण्डवाः ।
अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् ॥ 5-140-11(36587)
पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः।
द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः ॥ 5-140-12(36588)
राजानो राजपुत्राश्च पाण्डवार्थे समागताः।
पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः ॥ 5-140-13(36589)
हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा ।
ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः ॥ 5-140-14(36590)
राजन्या राजकन्याश्चाप्यानयन्त्वाभिषेचनम् ।
षष्ठे त्वां च तथा काले द्रौपद्युपगमिष्यति ॥ 5-140-15(36591)
अग्निं जुहोतु वै धौम्यः संशितात्मा द्विजोत्तमः ।
अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः ॥ 5-140-16(36592)
पुरोहितः पाण्डवानां ब्रह्मकर्मण्यवस्थितः।
तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः ॥ 5-140-17(36593)
द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा ।
अहं च त्वाऽभिषेक्ष्यामि राजानं पृथिवीपतिम् ॥ 5-140-18(36594)
युवराजोऽस्तु ते राजा धर्मपुत्रो युधिष्ठिरः।
गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः । 5-140-19(36595)
उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः ।
छत्रं च ते महाश्वेतं भीमसेनो महाबलः ॥ 5-140-20(36596)
अभिषिक्तस्य कौन्तेयो धारयिष्यति मूर्धनि ।
किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम् ॥ 5-140-21(36597)
रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति।
अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति ॥ 5-140-22(36598)
नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये।
पञ्चालाश्चानुयास्यन्ति शिखण्डी च महारथः । 5-140-23(36599)
अहं च त्वाऽनुयास्यामि सर्वे चान्धकवृष्णयः।
दाशार्हाः परिवारास्ते दाशार्णाश्च विशांपते ॥ 5-140-24(36600)
भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः ।
जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः ॥ 5-140-25(36601)
पुरोगमाश्च ते सन्तु द्रविडाः सहकुन्तलैः।
आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा ॥ 5-140-26(36602)
स्तुवन्तु त्वां च बहुभिः स्तुतिभिः सूतमागधाः ।
विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः ॥ 5-140-27(36603)
स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः।
प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय ॥ 5-140-28(36604)
मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा।
सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः ॥ ॥ 5-140-29(36605)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चत्वारिंशदधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-140-8 यश्च यस्तु कन्यायां जायते स द्विविधः कानीनः सहोढश्च । सहोढः विवाहादूर्ध्वं जातः। अन्यो विवाहात्प्राग्जातः । तन्मातुर्वोढारं तस्य पितरं प्राहुः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|